Sukta 1.116
शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः । शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥
श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथु॒: पात॑वे॒ वाः । श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥
śarásya cid ārcátkasyā́vatād ā́ nīcā́d uccā́ cakrathuḥ pátave vā́ḥ | śayáve cin nāsatyā śácībhiḥ jásuraye staryáṁ pipyathur gā́m ||
Even for Śara, from the low place you raised the waters upward for drinking, O Nāsatyas. And for Śayá you, by your effective powers, made the barren cow swell with milk for Jásura—turning deficiency into nourishment.
श॒रस्य॑ । चि॒त् । आ॒र्च॒त्ऽकस्य॑ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात॑वे । वाः । श॒यवे॑ । चि॒त् । ना॒स॒त्या॒ । शची॑भिः । जसु॑रये । स्त॒र्य॑म् । पि॒प्य॒थुः॒ । गाम् ॥शरस्य । चित् । आर्चत्कस्य । अवतात् । आ । नीचात् । उच्चा । चक्रथुः । पातवे । वाः । शयवे । चित् । नासत्या । शचीभिः । जसुरये । स्तर्यम् । पिप्यथुः । गाम् ॥śarasya | cit | ārcat-kasya | avatāt | ā | nīcāt | uccā | cakrathuḥ | pātave | vāḥ | śayave | cit | nāsatyā | śacībhiḥ | jasuraye | staryam | pipyathuḥ | gām