Sukta 1.116
एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा । निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ । निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
ékasyā vástor ā́vataṁ ráṇāya váśam aśvinā sanáye sahásrā | nír ahataṁ ducchúnā índravantā pṛthúśravasaḥ vṛṣaṇāv arā́tīḥ ||
In a single dawn you brought Vaśa for the winning of the battle, O Aśvins, for the gaining of the thousand. Driving out the evil distress, with Indra’s force beside you, you two mighty ones removed the hostile powers from Pṛthuśravas.
एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ । निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥एकस्याः । वस्तोः । आवतम् । रणाय । वशम् । अश्विना । सनये । सहस्रा । निः । अहतम् । दुच्छुनाः । इन्द्रवन्ता । पृथुश्रवसः । वृषणौ । अरातीः ॥ekasyāḥ | vastoḥ | āvatam | raṇāya | vaśam | aśvinā | sanaye | sahasrā | niḥ | ahatam | ducchunāḥ | indra-vantā | pṛthu-śravasaḥ | vṛṣaṇau | arātīḥ