Sukta 1.116
परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः । विभिन्दुना नासत्या रथेन वि पर्वताँ अजरयू अयातम् ॥
परि॑विष्टं जाहु॒षं वि॒श्वत॑: सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः । वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥
páriviṣṭaṁ jāhuṣáṁ viśvátas sīṁ sugébhir náktam ūhathū rájobhiḥ | vibhíndunā nāsatyā ráthena ví párvatāṁ ajarayū́ ayātam ||
Jāhuṣa, hemmed in on every side, you bore through the night by good paths across the wide spaces. With your chariot that breaks open the obstacles, O Nāsatyas, unfailing in your youth, you came cleaving apart the mountains—those hard formations that block the way.
परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः । वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥परिविष्टम् । जाहुषम् । विश्वतः । सीम् । सुगेभिः । नक्तम् । ऊहथुः । रजःभिः । विभिन्दुना । नासत्या । रथेन । वि । पर्वतान् । अजरयू इति । अयातम् ॥pari-viṣṭam | jāhuṣam | viśvataḥ | sīm | su-gebhiḥ | naktam | ūhathuḥ | rajaḥ-bhiḥ | vi-bhindunā | nāsatyā | rathena | vi | parvatān | ajarayū iti | ayātam