Sukta 1.116
रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता । आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायु॑: सु॒वीर्यं॑ नासत्या॒ वह॑न्ता । आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥
rayíṁ sukṣatráṁ svápatyam ā́yuḥ suvī́ryaṁ nāsatyā váhantā | ā́ jahnā́vīṁ sámanasópa vā́jais trír áhno bhā́gaṁ dádhatīm ayātam ||
Bearing the rayi—fullness of being—bringing good rule, noble offspring, long life and heroic power, O Nāsatyas, you came to Jahnā́vī with one accord, with vāja-forces; she who sets the triple portion of the day received your coming.
र॒यिम् । सु॒ऽक्ष॒त्रम् । सु॒ऽअ॒प॒त्यम् । आयुः॑ । सु॒ऽवीर्य॑म् । ना॒स॒त्या॒ । वह॑न्ता । आ । ज॒ह्नावी॑म् । सऽम॑नसा । उप॑ । वाजैः॑ । त्रिः । अह्नः॑ । भा॒गम् । दध॑तीम् । अ॒या॒त॒म् ॥रयिम् । सुक्षत्रम् । सुअपत्यम् । आयुः । सुवीर्यम् । नासत्या । वहन्ता । आ । जह्नावीम् । समनसा । उप । वाजैः । त्रिः । अह्नः । भागम् । दधतीम् । अयातम् ॥rayim | su-kṣatram | su-apatyam | āyuḥ | su-vīryam | nāsatyā | vahantā | ā | jahnāvīm | sa-manasā | upa | vājaiḥ | triḥ | ahnaḥ | bhāgam | dadhatīm | ayātam