Sukta 1.116
यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता । रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥
यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता । रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥
yád ayā́taṁ divodā́sāya vartír bharádvājāyāśvinā háyantā | revád uvāha sacanó rátho vām vṛṣabháś ca śiṁśumā́raś ca yuktā́ ||
When you came, O Aśvins, swift in your driving, to Divodāsa and to Bharadvāja with the path-opening movement, your chariot—moving in companionship—bore rich increase; yoked to it were the Bull-force and the Dolphin-power, energies of might and safe passage through the waters of becoming.
यत् । अया॑तम् । दिवः॑ऽदासाय । व॒र्तिः । भ॒रत्ऽवा॑जाय । अ॒श्वि॒ना॒ । हय॑न्ता । रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः॑ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः॑ । च॒ । यु॒क्ता ॥यत् । अयातम् । दिवःदासाय । वर्तिः । भरत्वाजाय । अश्विना । हयन्ता । रेवत् । उवाह । सचनः । रथः । वाम् । वृषभः । च । शिंशुमारः । च । युक्ता ॥yat | ayātam | divaḥ-dāsāya | vartiḥ | bharat-vājāya | aśvinā | hayantā | revat | uvāha | sacanaḥ | rathaḥ | vām | vṛṣabhaḥ | ca | śiṃśumāraḥ | ca | yuktā