Sukta 1.116
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती । विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती । विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
ā vā́m ráthaṁ duhitā́ sū́ryasya kā́rṣmevā́tiṣṭhad árvātā́ jáyantī | víśve devā́ ánv amanyanta hṛ́dbhiḥ sám u śriyā́ nāsatyā sacethe ||
The Daughter of the Sun ascended your chariot as one mounts a car, victorious in the forward movement of the steed. All the gods assented in their hearts; O Nāsatyas, you two moved together in a gathered radiance of śrī—beauty, harmony, and luminous fulfilment.
आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती । विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊँ॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥आ । वाम् । रथम् । दुहिता । सूर्यस्य । कार्ष्मइव । अतिष्ठत् । अर्वता । जयन्ती । विश्वे । देवाः । अनु । अमन्यन्त । हृत्भिः । सम् । ऊँ इति । श्रिया । नासत्या । सचेथे इति ॥ā | vām | ratham | duhitā | sūryasya | kārṣma-iva | atiṣṭhat | arvatā | jayantī | viśve | devāḥ | anu | amanyanta | hṛt-bhiḥ | sam | oṃ iti | śriyā | nāsatyā | sacetheiti