Sukta 1.116
शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार । तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार । तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
śatáṃ meṣā́n vṛ́kye cakṣadā́nam ṛjrā́śvaṃ táṃ pitā́ndhaṃ cakāra | tásmā akṣī́ nāsatyā vi-cákṣe ā́dhattam dasrā bhiṣajāv anarván ||
Ṛjrāśva, who gave a hundred sheep to the she-wolf, his father made blind. To him, O Nāsatyas, you set in place eyes of clear seeing—O wondrous physicians, unerring—restoring the light of discernment.
श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ । तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥शतम् । मेषान् । वृक्ये । चक्षदानम् । ऋज्रअश्वम् । तम् । पिता । अन्धम् । चकार । तस्मै । अक्षी इति । नासत्या । विचक्षे । आ । अधत्तम् । दस्रा । भिषजौ । अनर्वन् ॥śatam | meṣān | vṛkye | cakṣadānam | ṛjra-aśvam | tam | pitā | andham | cakāra | tasmai | akṣī iti | nāsatyā | vi-cakṣe | ā | adhattam | dasrā | bhiṣajau | anarvan