Sukta 1.116
अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरंधिः । श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥
अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः । श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
ájo havīn nāsatyā karā́ vāṃ mahé yā́man puru-bhujā púraṃdhiḥ | śrutáṃ tác chā́sur iva vadhri-matyā́ hiraṇya-hástam aśvināv adattam ||
Purandhi called you, O Nāsatyas, with her hands in the great journey, O wide-givers. And it was heard: as a command is obeyed, you granted to Vadhri-matī a golden hand—restoring her power to act and shape.
अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः । श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्र॒िऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥अजोहवीत् । नासत्या । करा । वाम् । महे । यामन् । पुरुभुजा । पुरम्धिः । श्रुतम् । तत् । शासुःइव । वध्रिमत्याः । हिरण्यहस्तम् । अश्विनौ । अदत्तम् ॥ajohavīt | nāsatyā | karā | vām | mahe | yāman | puru-bhujā | puram-dhiḥ | śrutam | tat | śāsuḥ-iva | vadhri-matyāḥ | hiraṇya-hastam | aśvinau | adattam