Sukta 1.116
तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥
तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् । द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥
tád vāṃ narā sanáye dáṃsa ugrám āvíṣ kṛṇomi tanyatúr na vṛṣṭím | dadhyáṅ ha yán mádhvātharváṇo vā́m áśvasya śīrṣṇā́ prá yád īm uvā́ca ||
This fierce act of power of yours I make manifest for the winning, like thunder making the rain visible. When Dadhyañc, the Atharvan, spoke to you the honeyed truth from the head of the horse—then your secret knowledge became a victorious revelation.
तत् । वा॒म् । न॒रा॒ । स॒नये॑ । दंसः॑ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । तन्य॒तुः । न । वृ॒ष्टिम् । द॒ध्यङ् । ह॒ । यत् । मधु॑ । आ॒थ॒र्व॒णः । वा॒म् । अश्व॑स्य । सी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच॑ ॥तत् । वाम् । नरा । सनये । दंसः । उग्रम् । आविः । कृणोमि । तन्यतुः । न । वृष्टिम् । दध्यङ् । ह । यत् । मधु । आथर्वणः । वाम् । अश्वस्य । सीर्ष्णा । प्र । यत् । ईम् । उवाच ॥tat | vām | narā | sanaye | daṃsaḥ | ugram | āviḥ | kṛṇomi | tanyatuḥ | na | vṛṣṭim | dadhyaṅ | ha | yat | madhu | ātharvaṇaḥ | vām | aśvasya | sīrṣṇā | pra | yat | īm | uvāca