Sukta 1.116
तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् । यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय ॥
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् । यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥
tád vāṃ narā śáṃsyaṃ rā́dhyaṃ cābhiṣṭí-mannāsatyā varū́tham | yád vidvā́ṃsā nidhím ivā́pa-gūḷham úd darśatā́d ū́pathur vandanā́ya ||
This is your deed, O heroic Ones—worthy to be proclaimed and to be accomplished: your protection that brings victory. For you, knowing, raised up for Vandana from the realm of invisibility what was hidden like a treasure.
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् । यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥तत् । वाम् । नरा । शंस्यम् । राध्यम् । च । अभिष्टिमत् । नासत्या । वरूथम् । यत् । विद्वांसा । निधिम्इव । अपगूळ्हम् । उत् । दर्शतात् । ऊपथुः । वन्दनाय ॥tat | vām | narā | śaṃsyam | rādhyam | ca | abhiṣṭi-mat | nāsatyā | varūtham | yat | v idvāṃsā | nidhim-iva | apa-gūḷham | ut | darśatāt | ūpathuḥ | vandanāya