Sukta 1.115
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार । यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥
तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार । य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑ ॥
tát sū́ryasya devatváṃ tán mahitváṃ madhyā́ kartór vítataṃ sáṃ jabhāra | yadéd áyukta harítaḥ sadhásthād ā́d rā́trī vā́sas tanute simásmai ||
This is the godhead of Sūrya, this his greatness: he has gathered together the wide-stretched web between the two doers (Night and Dawn / the two horizons). When he yokes the Harits from their common station, then Night spreads her garment for him—so that the illuminer may emerge by a lawful passage from concealment to manifestation.
तत् । सूर्य॑स्य । दे॒व॒ऽत्वम् । तत् । म॒हि॒ऽत्वम् । म॒ध्या । कर्तोः॑ । विऽत॑तम् । सम् । ज॒भा॒र॒ । य॒दा । इत् । अयु॑क्त । ह॒रितः॑ । स॒धऽस्था॑य् । आत् । रात्री॑ । वासः॑ । त॒नु॒ते॒ । सि॒मस्मै॑ ॥तत् । सूर्यस्य । देवत्वम् । तत् । महित्वम् । मध्या । कर्तोः । विततम् । सम् । जभार । यदा । इत् । अयुक्त । हरितः । सधस्थाय् । आत् । रात्री । वासः । तनुते । सिमस्मै ॥tat | sūryasya | deva-tvam | tat | mahi-tvam | madhyā | kartoḥ | vi-tatam | sam | jabhāra | yadā | it | ayukta | haritaḥ | sadha-sthāy | āt | rātrī | vāsaḥ | tanute | simasmai