Sukta 1.115
भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥
भ॒द्रा अश्वा॑ ह॒रित॒: सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थु॒: परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥
bhadrā́ aśvā́ harítaḥ sū́ryasya citrā́ etágvā anumā́dyāsaḥ | namasyántaḥ divá ā́ pṛṣṭhám asthuḥ pári dyāvāpṛthivī́ yánti sadyáḥ ||
Auspicious are the steeds, the bright green-golden powers of the Sun—variegated, swift-moving, exulting in their onward surge. In adoration they take their station upon the back of Heaven; at once they move encompassing both Sky and Earth—spreading the Sun’s ordered illumination through the whole field of our being.
भ॒द्राः । अश्वाः॑ । ह॒रितः॑ । सूर्य॑स्य । चि॒त्राः । एत॑ऽग्वाः । अ॒नु॒ऽमाद्या॑सः । न॒म॒स्यन्तः॑ । दि॒वः । आ । पृ॒ष्ठम् । अ॒स्थुः॒ । परि॑ । द्यावा॑पृथि॒वी । य॒न्ति॒ । स॒द्यः ॥भद्राः । अश्वाः । हरितः । सूर्यस्य । चित्राः । एतग्वाः । अनुमाद्यासः । नमस्यन्तः । दिवः । आ । पृष्ठम् । अस्थुः । परि । द्यावापृथिवी । यन्ति । सद्यः ॥bhadrāḥ | aśvāḥ | haritaḥ | sūryasya | citrāḥ | eta-gvāḥ | anu-mādyāsaḥ | namasyantaḥ | divaḥ | ā | pṛṣṭham | asthuḥ | pari | dyāvāpṛthivī | yanti | sadyaḥ