Sukta 1.115
सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥
सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥
sū́ryo devī́m uṣásaṃ rócamānāṃ máryo ná yóṣām abhyèti paścā́t | yátrā náro deva-yánto yugā́ni vi-tanváte práti bhadrā́ya bhadrám ||
Surya follows after the shining Dawn as a young man follows a maiden. There where men who seek the Divine spread out the ages, they set good against good—each auspicious step answering to a greater auspiciousness.
सूर्यः॑ । दे॒वीम् । उ॒षसम् । रोच॑मानाम् । मर्यः॑ । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् । यत्र॑ । नरः॑ । दे॒व॒ऽयन्तः॑ । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥सूर्यः । देवीम् । उषसम् । रोचमानाम् । मर्यः । न । योषाम् । अभि । एति । पश्चात् । यत्र । नरः । देवयन्तः । युगानि । वितन्वते । प्रति । भद्राय । भद्रम् ॥sūryaḥ | devīm | uṣasam | rocamānām | maryaḥ | na | yoṣām | abhi | eti | paścāt | yatra | naraḥ | deva-yantaḥ | yugāni | vi-tanvate | prati | bhadrāya | bhadram