Sukta 1.115
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥
citrám devā́nām úd agād anī́kaṃ cákṣur mitrásya váruṇasyā́gneḥ | ā́prā dyā́vāpṛthivī́ antárikṣaṃ sū́rya ātmā́ jágatas tasthúṣaś ca ||
The luminous face of the gods has risen—Surya, the eye of Mitra and Varuṇa and of Agni. He has filled Heaven and Earth and the mid-world; the Sun is the very Self of all that moves and all that stands.
चि॒त्रम् । दे॒वाना॑म् । उत् । अ॒गा॒त् । अनी॑कम् । चक्षुः॑ । मि॒त्रस्य॑ । वरु॑णस्य । अ॒ग्नेः । आ । अ॒प्राः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तरि॑क्षम् । सूर्यः॑ । आ॒त्मा । जग॑तः । त॒स्थुषः॑ । च॒ ॥चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । वरुणस्य । अग्नेः । आ । अप्राः । द्यावापृथिवी इति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥citram | devānām | ut | agāt | anīkam | cakṣuḥ | mitrasya | varuṇasya | agneḥ | ā | aprāḥ | dyāvāpṛthivī iti | antarikṣam | sūryaḥ | ātmā | jagataḥ | tasthuṣaḥ | ca