Sukta 1.113
उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य । यन्मानुषान्यक्ष्यमाणाँ अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥
उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य । यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्न॑: ॥
uṣo yád agníṁ samídhe cákartha ví yád ā́vaś cákṣasā sū́ryasya | yán mā́nuṣān yakṣyámāṇān ájīgas tád devéṣu cakṛṣe bhadrám ápnaḥ ||
O Dawn, when you have made the Fire to be kindled, when you have opened out the seeing of the Sun, when you have stirred human beings who are preparing the offering—then you accomplish among the gods a happy work, a beneficent realization.
उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य । यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥उषः । यत् । अग्निम् । सम्इधे । चकर्थ । वि । यत् । आवः । चक्षसा । सूर्यस्य । यत् । मानुषान् । यक्ष्यमाणान् । अजीगरिति । तत् । देवेषु । चकृषे । भद्रम् । अप्नः ॥uṣaḥ | yat | agnim | sam-idhe | cakartha | vi | yat | āvaḥ | cakṣasā | sūryasya | yat | mānuṣān | yakṣyamāṇān | ajīgariti | tat | deveṣu | cakṛṣe | bhadram | apnaḥ