Sukta 1.113
कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् । अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥
किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् । अनु॒ पूर्वा॑: कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥
kiyā́tyā yát samáyā bhávāti yā́ vyū́ṣur yā́ś ca nūnáṁ vyucchā́n | ánu pū́rvāḥ kṛpate vāvaśānā́ pradī́dhyānā jóṣam anyā́bhir eti ||
How long is the measure of her season—of those that have dawned and of those that now are dawning? She yearns and moves in sympathy with the earlier ones; shining forth, she goes onward with the others, seeking the glad consent of the powers.
किय॑ति । आ । यत् । स॒मया॑ । भवा॑ति । याः । वि॒ऽऊ॒षुः । याः । च॒ । नू॒नम् । वि॒ऽउ॒च्छान् । अनु॑ । पूर्वाः॑ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒ऽदीध्या॑ना । जोष॑म् । अ॒न्याभिः॑ । ए॒ति॒ ॥कियति । आ । यत् । समया । भवाति । याः । विऊषुः । याः । च । नूनम् । विउच्छान् । अनु । पूर्वाः । कृपते । वावशाना । प्रदीध्याना । जोषम् । अन्याभिः । एति ॥kiyati | ā | yat | samayā | bhavāti | yāḥ | vi-ūṣuḥ | yāḥ | ca | nūnam | vi-ucchān | anu | pūrvāḥ | kṛpate | vāvaśānā | pra-dīdhyānā | joṣam | anyābhiḥ | eti