Sukta 1.113
परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् । व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥
प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् । व्यु॒च्छन्ती॑ जी॒वमु॑दी॒रय॑न्त्यु॒षा मृ॒तं कं च॒न बो॒धय॑न्ती ॥
parāyatī́nām ánv eti pā́tha āyatī́nām prathamā́ śáśvatīnām | vyucchántī jīváṁ udīráyanty uṣā́ mṛtáṁ káṁ caná bodháyantī ||
She follows the track of those who depart and goes first before those who come—everlasting in her succession. Dawning, she raises up the living being; she does not awaken any deadness at all, but calls the life-force to rise.
प॒रा॒य॒ती॒नाम् । अनु॑ । ए॒ति॒ । पाथः॑ । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । शश्व॑तीनाम् । वि॒ऽउ॒च्छन्ती॑ । जी॒वम् । उ॒त्ऽई॒रय॑न्ती । उ॒षाः । मृ॒तम् । कम् । च॒न । बो॒धय॑न्ती ॥परायतीनाम् । अनु । एति । पाथः । आयतीनाम् । प्रथमा । शश्वतीनाम् । विउच्छन्ती । जीवम् । उत्ईरयन्ती । उषाः । मृतम् । कम् । चन । बोधयन्ती ॥parāyatīnām | anu | eti | pāthaḥ | āyatīnām | prathamā | śaśvatīnām | vi-ucchantī | jīvam | ut-īrayantī | uṣāḥ | mṛtam | kam | cana | bodhayantī