Sukta 1.113
एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः । विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती॑ युव॒तिः शु॒क्रवा॑साः । विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥
eṣā́ divó duhitā́ práty adarśi vyucchántī yuvatíḥ śukrávāsāḥ | víśvasyéśānā pārthivásya vásva uṣó adyéhá subhage vyùccha ||
Here is the Daughter of Heaven, seen facing us—dawning, a young maiden robed in radiance. Mistress of all earthly treasures, O Dawn, auspicious one, dawn here today for us in fullness.
ए॒षा । दि॒वः । दु॒हि॒ता प्रति॑ । अ॒द॒र्शि॒ । वि॒ऽउ॒च्छन्ती॑ । यु॒व॒तिः । शु॒क्रऽवा॑साः । विश्व॑स्य । ईशा॑ना । पार्थि॑वस्य । वस्वः॑ । उषः॑ । अ॒द्य । इ॒ह । सु॒ऽभ॒गे॒ । वि । उ॒च्छ॒ ॥एषा । दिवः । दुहिता प्रति । अदर्शि । विउच्छन्ती । युवतिः । शुक्रवासाः । विश्वस्य । ईशाना । पार्थिवस्य । वस्वः । उषः । अद्य । इह । सुभगे । वि । उच्छ ॥eṣā | divaḥ | duhitā prati | adarśi | vi-ucchantī | yuvatiḥ | śukra-vāsāḥ | viśvasya | īśānā | pārthivasya | vasvaḥ | uṣaḥ | adya | iha | su-bhage | vi | uccha