Sukta 1.113
जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् । दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥
जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वम् । द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
jihmáśye carítave maghónyā ābhógaya iṣṭáye rāyá u tvám | dabhraṁ páśyadbhya urviyā́ vicákṣa uṣā́ ajīgaḥ bhúvanāni víśvā ||
For the crooked and the straight alike to move rightly, O bounteous one, you bring the enjoyments and the sought-for plenitudes. To those who see little you give a wide vision: Dawn has stirred all the worlds into awakening.
जि॒ह्म॒ऽश्ये॑ । चरि॑तवे । म॒घोनी॑ । आ॒ऽभो॒गये॑ । इ॒ष्टये॑ । रा॒ये । ऊँ॒ इति॑ । त्वम् । द॒भ्रम् । पश्य॑त्ऽभ्यः । उ॒र्वि॒या । वि॒ऽचक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥जिह्मश्ये । चरितवे । मघोनी । आभोगये । इष्टये । राये । ऊँ इति । त्वम् । दभ्रम् । पश्यत्भ्यः । उर्विया । विचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥jihma-śye | caritave | maghonī | ābhogaye | iṣṭaye | rāye | oṃ iti | tvam | dabhram | paśyat-bhyaḥ | urviyā | vi-cakṣe | uṣāḥ | ajīgaḥ | bhuvanān i | viśvā