Sukta 1.113
भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः । प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥
भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः । प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥
bhā́svatī netrī́ sūnṛ́tānām áceti citrā́ ví dúro na āvaḥ | prā́rpyā jágad vyù no rāyó ákhyad uṣā́ ajīgaḥ bhúvanāni víśvā ||
Radiant, a leader of the soul’s right utterances, she becomes manifest; wondrous, she has opened wide the doors for us. Touching and setting the world in motion, she has made visible for us the plenitudes of being: Dawn has stirred all the worlds into awakening.
भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । अचे॑ति । चि॒त्रा । वि । दुरः॑ । नः॒ । आ॒व॒रित्या॑वः । प्र॒ऽर्प्य॑ । जग॑त् । वि । ऊँ॒ इति॑ । नः॒ । रा॒यः । अ॒ख्य॒त् । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥भास्वती । नेत्री । सूनृतानाम् । अचेति । चित्रा । वि । दुरः । नः । आवरित्यावः । प्रर्प्य । जगत् । वि । ऊँ इति । नः । रायः । अख्यत् । उषाः । अजीगः । भुवनानि । विश्वा ॥bhāsvatī | netrī | sūnṛtānām | aceti | citrā | vi | duraḥ | naḥ | āvar ity āvaḥ | prar-pya | jagat | vi | oṃ iti | naḥ | rāyaḥ | akhyat | uṣāḥ | ajīgaḥ | bhuvanāni | viśvā