Sukta 1.113
समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे । न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥
स॒मा॒नो अध्वा॒ स्वस्रो॑रन॒न्तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे । न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥
samā́nó ádhvā svasróḥ anantás tám anyā́nyā carato deváśiṣṭe | ná méthēte ná tasthatúḥ suméke náktoṣā́sā́ sámanasā́ virū́pe ||
One is the endless path of the two Sisters; yet each in her own way moves upon that same track, guided by the divine ordinance. They do not clash, they do not halt in one place: Night and Dawn, of one intent, move on—different in form, but joined in a single will.
स॒मा॒नः । अध्वा॑ । स्वस्रोः॑ । अ॒न॒न्तः । तम् । अ॒न्याऽअ॑न्या । च॒र॒तः॒ । दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे । न । मे॒थे॒ते॒ इति॑ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । नक्तो॒षासा॑ । सऽम॑नसा । विरू॑पे॒ इति॒ विऽरू॑पे ॥समानः । अध्वा । स्वस्रोः । अनन्तः । तम् । अन्याअन्या । चरतः । देवशिष्टे इति देवशिष्टे । न । मेथेते इति । न । तस्थतुः । सुमेके इति सुमेके । नक्तोषासा । समनसा । विरूपे इति विरूपे ॥samānaḥ | adhvā | svasroḥ | anantaḥ | tam | anyāanyā | carataḥ | devaśiṣṭeitideva-śiṣṭe | na | metheteiti | na | tasthatuḥ | sumeke itisu-meke | naktoṣāsā | sa-manasā | virūpeitivi-rūpe