Sukta 1.113
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥
रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः । स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥
ruśád-vatsā ruśátī śvetíyā́gād ā́raig u kṛ́ṣṇā sádānāny asyāḥ | samānáb-andhū amṛ́te anūcī́ dyā́vā varṇáṃ carata ā́mināne ||
Radiant with her shining calves, radiant herself, the white-bright one has come; and the black has departed from her seats. The two immortal sisters, of one bond, moving in succession, traverse their color without injury.
रुश॑त्ऽवत्सा । रुश॑ती । श्वे॒त्या । आ । अ॒गा॒त् । अरै॑क् । ऊँ॒ इति॑ । कृ॒ष्णा । सद॑नानि । अ॒स्याः॒ । स॒मा॒नब॑न्धू॒ इति॑ स॒मा॒नऽब॑न्धू । अ॒मृते॒ इति॑ । अ॒नू॒ची इति॑ । द्यावा॑ । वर्ण॑म् । च॒र॒तः॒ । आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥रुशत्वत्सा । रुशती । श्वेत्या । आ । अगात् । अरैक् । ऊँ इति । कृष्णा । सदनानि । अस्याः । समानबन्धू इति समानबन्धू । अमृते इति । अनूची इति । द्यावा । वर्णम् । चरतः । आमिनाने इत्यामिनाने ॥ruśat-vatsā | ruśatī | śvetyā | ā | agāt | araik | oṃ iti | kṛṣṇā | sadanāni | asyāḥ | samānabandhūitisamāna-bandhū | amṛteiti | anūcī iti | dyāvā | varṇam | carataḥ | āmināne ity āmināne