Sukta 1.113
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारैक् ॥
इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ । यथा॒ प्रसू॑ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥
idáṃ śréṣṭhaṃ jyótiṣāṃ jyótir ā́gāc citráḥ prá-keto ajaniṣṭa ví-bhvā | yáthā prá-sūtā savitúḥ savā́yaṃ evā́ rā́try uṣáse yónim ā́raik ||
This supreme Light of lights has come; the wondrous One, the clear-discerning, is born in her vastness. As one brought forth for Savitṛ’s impulsion, so Night has yielded the womb to Dawn.
इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । आ । अ॒गा॒त् । चि॒त्रः । प्र॒ऽके॒तः । अ॒ज॒नि॒ष्ट॒ । विऽभ्वा॑ । यथा॑ । प्रऽसू॑ता । स॒वि॒तुः । स॒वाय॑ । ए॒व । रात्री॑ । उ॒षसे॑ । योनि॑म् । अ॒रै॒क् ॥इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । आ । अगात् । चित्रः । प्रकेतः । अजनिष्ट । विभ्वा । यथा । प्रसूता । सवितुः । सवाय । एव । रात्री । उषसे । योनिम् । अरैक् ॥idam | śreṣṭham | jyotiṣām | jyotiḥ | ā | agāt | citraḥ | pra-ketaḥ | ajaniṣṭa | vi-bhvā | yathā | pra-sūtā | savituḥ | savāya | eva | rātrī | uṣase | yonim | araik