Sukta 1.113
माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि । प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥
मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि । प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥
mātā́ devā́nām áditeḥ ánīkaṃ yajñásya ketúr bṛhatī́ ví bhāhi | praśastikṛ́d bráhmaṇe no vyùcchā no jáne janaya viśvavāre ||
Mother of the gods, the face of Aditi, the banner of the sacrifice—O Vast One, shine out. Maker of the right praise for our sacred word, dawn forth for us; bring to birth in our people the plenitudes of all that is desirable.
मा॒ता । दे॒वाना॑म् । अदि॑तेः । अनी॑कम् । य॒ज्ञस्य॑ । के॒तुः । बृ॒ह॒ती । वि । भा॒हि॒ । प्र॒श॒स्ति॒ऽकृत् । ब्रह्म॑णे । नः॒ । वि । उ॒च्छ॒ । नः॒ । जने॑ । ज॒न॒य॒ । वि॒श्व॒ऽवा॒रे॒ ॥माता । देवानाम् । अदितेः । अनीकम् । यज्ञस्य । केतुः । बृहती । वि । भाहि । प्रशस्तिकृत् । ब्रह्मणे । नः । वि । उच्छ । नः । जने । जनय । विश्ववारे ॥mātā | devānām | aditeḥ | anīkam | yajñasya | ketuḥ | bṛhatī | vi | bhāhi | praśasti-kṛt | brahmaṇe | naḥ | vi | uccha | naḥ | jane | janaya | viśva-vāre