Sukta 1.113
यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
यच्चि॒त्रमप्न॑ उ॒षसो॒ वह॑न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
yác citrám ápna uṣáso váhantījānā́ya śaśamānā́ya bhadrám | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ||
Whatever wondrous fulfilment the Dawns bring as a good for the worshipper who strives—may that Mitra and Varuṇa magnify for us; and Aditi, and the River of flowing being, and Earth, and Heaven.
यत् । चि॒त्रम् । अप्नः॑ । उ॒षसः॑ । वह॑न्ति । ई॒जा॒नाय॑ । श॒श॒मा॒नाय॑ । भ॒द्रम् । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥यत् । चित्रम् । अप्नः । उषसः । वहन्ति । ईजानाय । शशमानाय । भद्रम् । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥yat | citram | apnaḥ | uṣasaḥ | vahanti | ījānāya | śaśamānāya | bhadram | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ