Sukta 1.113
या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय । वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥
या गोम॑तीरु॒षस॒: सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या॑य । वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥
yā́ gómātīr uṣásaḥ sárvavīrā vyùcchanti dāśúṣe mártyāya | vā́yor iva sūnṛ́tānām udarké tā́ aśvadā́ aśnavat sómasutvā ||
Those Dawns that shine out, rich in rays and full of soul-forces, for the mortal who gives, like the wide utterances of Vāyu in their uplifted surge—may he, by the Soma-pressing, attain them, those that grant the energies of swift power.
याः । गोऽम॑तीः । उ॒षसः॑ । सर्व॑ऽवीराः । वि॒ऽउ॒च्छन्ति॑ । दा॒शुषे॑ । मर्त्या॑य । वा॒योःऽइ॑व । सू॒नृता॑नाम् । उ॒त्ऽअ॒र्के । ताः । अ॒श्व॒ऽदाः । अ॒श्न॒व॒त् । सो॒म॒ऽसुत्वा॑ ॥याः । गोमतीः । उषसः । सर्ववीराः । विउच्छन्ति । दाशुषे । मर्त्याय । वायोःइव । सूनृतानाम् । उत्अर्के । ताः । अश्वदाः । अश्नवत् । सोमसुत्वा ॥yāḥ | go--matīḥ | uṣasaḥ | sarva-vīrāḥ | vi-ucchanti | dāśuṣe | martyāya | vāyoḥ-iva | sūnṛtānām | ut-arke | tāḥ | aśva-dāḥ | aśnavat | soma-sutvā