Sukta 1.113
स्यूमना वाच उदियर्ति वह्निः स्तवानो रेभ उषसो विभातीः । अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥
स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्नि॒: स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः । अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥
syū́manā vā́ca úd iyarti váhniḥ stávāno rebhá uṣáso vibhātī́ḥ | adyā́ tád uccha gṛṇaté maghoni asmḗ ā́yur ní didīhi prajā́vat ||
With a fullness of inspired speech the flame of will rises upward, praising the shining Dawns with the chant. Today too, O bounteous one, shine forth for the singer; set firm in us a life that is rich with progeny of the soul.
स्यूम॑ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः॑ । स्तवा॑नः । रे॒भः । उ॒षसः॑ । वि॒ऽभा॒तीः । अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति॑ । आयुः॑ । नि । दि॒दी॒हि॒ । प्र॒जाऽव॑त् ॥स्यूमना । वाचः । उत् । इयर्ति । वह्निः । स्तवानः । रेभः । उषसः । विभातीः । अद्य । तत् । उच्छ । गृणते । मघोनि । अस्मे इति । आयुः । नि । दिदीहि । प्रजावत् ॥syūmanā | vācaḥ | ut | iyarti | vahniḥ | stavānaḥ | rebhaḥ | uṣasaḥ | vi-bhātīḥ | adya | tat | uccha | gṛṇate | maghoni | asme iti | āyuḥ | ni | didīhi | prajāvat