Sukta 1.113
उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति । आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥
उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति । आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑: ॥
udī́rdhvaṃ jīvó ásur na ā́gād ápa prā́gāt táma ā́ jyótir eti | ā́raik pánthāṃ yā́tave sū́ryā́yā́ganma yátra pratiránta ā́yuḥ ||
Upright has come our living breath; forward has gone away the darkness, and the Light comes. A path has been opened for the Sun to travel; we have reached the place where life is sustained and extended.
उत् । ई॒र्ध्व॒म् । जी॒वः । असुः॑ । नः॒ । आ । अ॒गा॒त् । अप॑ । प्र । अ॒गा॒त् । तमः॑ । आ । ज्योतिः॑ । ए॒ति॒ । अरै॑क् । पन्था॑म् । यात॑वे । सूर्या॑य । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥उत् । ईर्ध्वम् । जीवः । असुः । नः । आ । अगात् । अप । प्र । अगात् । तमः । आ । ज्योतिः । एति । अरैक् । पन्थाम् । यातवे । सूर्याय । अगन्म । यत्र । प्रतिरन्ते । आयुः ॥ut | īrdhvam | jīvaḥ | asuḥ | naḥ | ā | agāt | apa | pra | agāt | tamaḥ | ā | jyotiḥ | et i | araik | panthām | yātave | sūryāya | aganma | yatra | pra-tirante | āyuḥ