Sukta 1.113
आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना । ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥
आ॒वह॑न्ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना । ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥
āváhantī póṣyā vā́ryāṇi citráṃ ketúṃ kṛṇute cékītānā | īyúṣīṇām upamā́ śáśvatīnām vibhātīnā́m prathamóṣā vyàśvait ||
Bringing the fosterings and the desirable plenitudes, she makes a wondrous banner of light, conscious and discerning. The first Uṣas has shone out, a constant exemplar for all the dawns that have come and will come, for all the shining ones.
आ॒ऽवह॑न्ती । पोष्या॑ । वार्या॑णि । चि॒त्रम् । के॒तुम् । कृ॒णु॒ते॒ । चेकि॑ताना । ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । वि॒ऽभा॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒श्वै॒त् ॥आवहन्ती । पोष्या । वार्याणि । चित्रम् । केतुम् । कृणुते । चेकिताना । ईयुषीणाम् । उपमा । शश्वतीनाम् । विभातीनाम् । प्रथमा । उषाः । वि । अश्वैत् ॥āvahantī | poṣyā | vāryāṇi | citram | ketum | kṛṇute | cekitānā | īyuṣīṇām | upa-mā | śaśvatīnām | vi-bhātīnām | prathamā | uṣāḥ | vi | aśvait