Sukta 1.113
व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः । प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥
व्य१॒॑ञ्जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः । प्र॒बो॒धय॑न्त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥
vy àñjíbhiḥ divá ātā́sv adyaut ápa kṛṣṇā́m nirṇíjaṃ devy ā́vaḥ | prabodháyanty aruṇébhiḥ aśváir óṣā yāti suyújā ráthena ||
With her radiant adornments she shines forth from the dwelling-places of Heaven; the goddess has cast away the black covering. Awakening all with her ruddy horses, Uṣas comes, well-yoked, upon her chariot.
वि । अ॒ञ्जिऽभिः॑ । दि॒वः । आता॑सु । अ॒द्यौ॒त् । अप॑ । कृ॒ष्णाम् । निः॒ऽनिज॑म् । दे॒वी । आ॒व॒रित्या॑वः । प्र॒ऽबो॒धय॑न्ती । अ॒रु॒णेभिः॑ । अश्वैः॑ । आ । उ॒षाः । या॒ति॒ । सु॒ऽयुजा॑ । रथे॑न ॥वि । अञ्जिभिः । दिवः । आतासु । अद्यौत् । अप । कृष्णाम् । निःनिजम् । देवी । आवरित्यावः । प्रबोधयन्ती । अरुणेभिः । अश्वैः । आ । उषाः । याति । सुयुजा । रथेन ॥vi | añji-bhiḥ | divaḥ | ātāsu | adyaut | apa | kṛṣṇām | niḥ-nijam | devī | āvar ity āvaḥ | pra-bodhayantī | aruṇebhiḥ | aśvaiḥ | ā | uṣāḥ | yāti | su-yujā | rathena