Sukta 1.113
शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी । अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभिः ॥
शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ । अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभि॑: ॥
śáśvat puróṣā vyùvāsa devy átho adyédáṁ vyā́vo maghóni | átho vyùcchād úttarāṁ ánu dyū́n ajárāmṛ́tā carati svadhā́bhiḥ ||
From of old, Dawn the goddess has shone out; and today too, O bounteous one, you have unveiled this world. And when she has dawned, she moves on to the later days—unaging, deathless—by her own inherent power.
शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ । अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥शश्वत् । पुरा । उषाः । वि । उवास । देवी । अथो इति । अद्य । इदम् । वि । आवः । मघोनी । अथो इति । वि । उच्छात् । उत्तरान् । अनु । द्यून् । अजरा । अमृता । चरति । स्वधाभिः ॥śaśvat | purā | uṣāḥ | vi | uvāsa | devī | atho iti | adya | idam | vi | āvaḥ | maghonī | atho iti | vi | ucchāt | ut-tarān | anu | dyūn | ajarā | amṛtā | carati | svadhābhiḥ