Sukta 1.113
यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती । सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥
या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रय॑न्ती । सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योष॒: श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥
yāvayád dveṣā ṛtapā́ ṛtejā́ḥ sumnāvarī sūnṛ́tā īráyantī | sumáṅgalīr bíbh ratī devávītim ihā́dyóṣaḥ śréṣṭhatamā vyùccha ||
Driving away hatred, a guardian of ṛta and born of ṛta, bringing the coverings of grace, she sets the true speech in motion. Bearing auspicious harmonies and the way of the gods, O Dawn most excellent, dawn here today.
या॒व॒यत्ऽद्वे॑षाः । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । सु॒म्न॒ऽवरी॑ । सू॒नृताः॑ । ई॒रय॑न्ती । सु॒ऽम॒ङ्ग॒लीः । बिभ्र॑ती । दे॒वऽवी॑तिम् । इ॒ह । अ॒द्य । उ॒षः॒ । श्रेष्ठ॑ऽतमा । वि । उ॒च्छ॒ ॥यावयत्द्वेषाः । ऋतपाः । ऋतेजाः । सुम्नवरी । सूनृताः । ईरयन्ती । सुमङ्गलीः । बिभ्रती । देववीतिम् । इह । अद्य । उषः । श्रेष्ठतमा । वि । उच्छ ॥yāvayat-dveṣāḥ | ṛta-pāḥ | ṛte--jāḥ | sumna-varī | sūnṛtāḥ | īrayantī | su-maṅgalīḥ | bibhratī | deva-vītim | iha | adya | uṣaḥ | śreṣṭha-tamā | vi | uccha