Sukta 1.113
ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः । अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥
īyúṣ ṭe yé pū́rvatārām ápaśyan vyucchántīm uṣásaṁ mártyāsaḥ | asmā́bhir ū́ nú praticákṣyā abhūd ó te yánti yé aparī́ṣu páśyān ||
They have gone—those mortals who saw the earlier Dawn as she dawned forth. Now she has become visible to us in return; but those pass on who, even while seeing, remain in the farther distances.
ई॒युः । ते । ये । पूर्व॑ऽतराम् । अप॑श्यन् । वि॒ऽउ॒च्छन्ती॑म् । उ॒षस॑म् । मर्त्या॑सः । अ॒स्माभिः॑ । ऊँ॒ इति॑ । नु । प्र॒ति॒ऽचक्ष्या॑ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्या॑न् ॥ईयुः । ते । ये । पूर्वतराम् । अपश्यन् । विउच्छन्तीम् । उषसम् । मर्त्यासः । अस्माभिः । ऊँ इति । नु । प्रतिचक्ष्या । अभूत् । ओ इति । ते । यन्ति । ये । अपरीषु । पश्यान् ॥īyuḥ | te | ye | pūrva-tarām | apaśyan | vi-ucchantīm | uṣasam | martyāsaḥ | asmābhiḥ | oṃ iti | nu | prati-cakṣyā | abhūt | o iti | te | yanti | ye | aparīṣu | paśyān