Sukta 1.111
ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये । उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥
ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुत॒: सोम॑पीतये । उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥
ṛbhukṣaṇám índram ā́ huve ūtáye ṛbhū́n vā́jān marútaḥ sóma-pītaye | ubhā́ mitrā́varūṇā nū́nám aśvínā te no hinvantu sātáye dhíye jíṣe ||
I call Indra, the lord of Ṛbhus, for help; I call the Ṛbhus, the Vājas, the Maruts for the drinking of Soma. And now may both Mitra and Varuṇa, and the Aśvins too, impel us toward the attainment—toward the victorious thought that conquers.
ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये । उ॒भा । मि॒त्रावरू॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥ऋभुक्षणम् । इन्द्रम् । आ । हुवे । ऊतये । ऋभून् । वाजान् । मरुतः । सोमपीतये । उभा । मित्रावरूणा । नूनम् । अश्विना । ते । नः । हिन्वन्तु । सातये । धिये । जिषे ॥ṛbhukṣaṇam | indram | ā | huve | ūtaye | ṛbhūn | vājān | marutaḥ | soma-pītaye | ubhā | mitrāvarūṇā | nūnam | aśvinā | te | naḥ | hinvantu | sātaye | dhiye | jiṣe