Sukta 1.111
आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः । सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः । सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥
ā tákṣata sātím asmábhyam ṛbhavaḥ sātíṃ rathā́ya sātím árvate naraḥ | sātíṃ no jáitrīṃ sáṃ maheta viśvá-hā jāmím ajā́mim pṛ́tanāsu sákṣaṇim ||
O Ṛbhus, fashion for us the winning attainment—an attainment for the chariot of our effort, an attainment for the steed of our life-force, O strong ones. May the conquering attainment grow together for us always, able in the battles, overcoming even what is near and habitual and what is alien and resistant.
आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ । सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वऽहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥आ । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । रथाय । सातिम् । अर्वते । नरः । सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वहा । जामिम् । अजामिम् । पृतनासु । सक्षणिम् ॥ā | takṣata | sātim | asmabhyam | ṛbhavaḥ | sātim | rathāya | sātim | arvate | naraḥ | sāti m | naḥ | jaitrīm | sam | maheta | viśva-hā | jāmim | ajāmim | pṛtanāsu | sakṣaṇim