Sukta 1.111
ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
ṛbhúr bhárāya sáṃ śiśātu sātíṃ samarya-jíd vā́jo asmā́m aviṣṭu | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī utá dyáuḥ ||
May Ṛbhu sharpen and set in order our attaining for the bearing-forward; may Vāja, conqueror in the clash, protect us. And may Mitra and Varuṇa enlarge that for us; and Aditi, and Sindhu, and Earth, and Heaven.
ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥ऋभुः । भराय । सम् । शिशातु । सातिम् । समर्यजित् । वाजः । अस्मान् । अविष्टु । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥ṛbhuḥ | bharāya | sam | śiśātu | sātim | samarya-jit | vājaḥ | asmān | aviṣṭu | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ