Sukta 1.111
आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् । यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥
आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वय॒: क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् । यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्न॒: शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥
ā́ no yajñā́ya takṣata ṛbhu-mád vayaḥ krátve dákṣāya su-prajā́vatīm íṣam | yáthā kṣayā́ma sárva-vīrayā viśā́ tán naḥ śárdhāya dhāsathā́ sú indríyam ||
Fashion for us, O Ribhu-ones, for the sacrifice, the vital power that serves will and skill—an impulse rich in right offspring. So that we may dwell with an all-heroic people, place in our host a strong lordly power.
आ । नः॒ । य॒ज्ञाय॑ । त॒क्ष॒त॒ । ऋ॒भु॒ऽमत् । वयः॑ । ऋत्वे॑ । दक्षा॑य । सु॒ऽप्र॒जाव॑तीम् । इष॑म् । यथा॑ । क्षया॑म । सर्व॑ऽवीरया । वि॒शा । तत् । नः॒ । शर्धा॑य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥आ । नः । यज्ञाय । तक्षत । ऋभुमत् । वयः । ऋत्वे । दक्षाय । सुप्रजावतीम् । इषम् । यथा । क्षयाम । सर्ववीरया । विशा । तत् । नः । शर्धाय । धासथ । सु । इन्द्रियम् ॥ā | naḥ | yajñāya | takṣata | ṛbhu-mat | vayaḥ | ṛtve | dakṣāya | su-prajāvatīm | iṣam | yathā | kṣayāma | sarva-vīrayā | viśā | tat | naḥ | śardhāya | dhāsatha | su | indriyam