Sukta 1.111
तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू । तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥
तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू । तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥
tákṣan ráthaṃ suvr̥táṃ vidmánā́pasas tákṣan hárī índra-vā́hā vṛ́ṣaṇ-vasū | tákṣan pitṛ́bhyām ṛ́bhavo yúvad vayas tákṣan vatsā́ya mātáraṃ sacā́-bhuvam ||
They fashioned the well-ordered chariot by knowledge in action; they fashioned the two bays, Indra’s bearers, rich in force. The Ribhus fashioned youth for the two parents; they fashioned the Mother to be united with the calf.
तक्ष॑न् । रथ॑म् । सु॒ऽवृत॑म् । वि॒द्म॒नाऽअ॑पसः । तक्ष॑न् । हरी॒ इति॑ । इ॒न्द्र॒ऽवाहा॑ । वृष॑ण्वसू॒ इति॒ वृष॑ण्ऽवसू । तक्ष॑न् । पि॒तृऽभ्या॑म् । ऋ॒भवः॑ । युव॑त् । वयः॑ । तक्ष॑न् । व॒त्साय॑ । मा॒तर॑म् । स॒चा॒ऽभुव॑म् ॥तक्षन् । रथम् । सुवृतम् । विद्मनाअपसः । तक्षन् । हरी इति । इन्द्रवाहा । वृषण्वसू इति वृषण्वसू । तक्षन् । पितृभ्याम् । ऋभवः । युवत् । वयः । तक्षन् । वत्साय । मातरम् । सचाभुवम् ॥takṣan | ratham | su-vṛtam | vidmanāapasaḥ | takṣan | harī iti | indra-vāhā | vṛṣaṇvasūitivṛṣaṇ-vasū | takṣan | pitṛ-bhyām | ṛbhavaḥ | yuvat | vayaḥ | takṣan | vatsāya | mātaram | sacābhuvam