Sukta 1.108
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥
évendrā́gnī papivā́ṃsā sutásya víśvāsmábhyaṃ sáṃ jayatam dhánāni | tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī utá dyáuḥ ||
Thus, O Indra and Agni, you who have drunk of the pressed Soma, win wholly for us the riches—every plenitude of being. And may Mitra and Varuṇa enlarge us; may Aditi, the flowing Sindhu, Earth and Heaven uphold and increase us.
ए॒व । इ॒न्द्रा॒ग्नी॒ इति॑ । प॒पि॒ऽवांसा॑ । सु॒तस्य॑ । विश्वा॑ । अ॒स्मभ्य॑म् । सम् । ज॒यत॒म् । धना॑नि । तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥एव । इन्द्राग्नी इति । पपिवांसा । सुतस्य । विश्वा । अस्मभ्यम् । सम् । जयतम् । धनानि । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥eva | indrāgnī iti | papi-vāṃsā | sutasya | viśvā | asmabhyam | sam | jayatam | dhanāni | tat | naḥ | mi traḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ