Sukta 1.108
यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु । अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । अत॒: परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
yád indrāgnī diví ṣṭhó yát pṛthivyā́ṃ yát párvateṣv óṣadhīṣv apsú | atáḥ pári vṛṣaṇā́vā hí yātam áthā sómasya pibatam sutásya ||
If you stand in heaven, or on earth, or in the mountains, in the plants, in the waters—then from there come around, O two mighty ones; and drink the pressed Soma.
यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । दि॒वि । स्थः । यत् । पृ॒थि॒व्याम् । यत् । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु । अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । दिवि । स्थः । यत् । पृथिव्याम् । यत् । पर्वतेषु । ओषधीषु । अप्सु । अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yat | indrāgnī iti | divi | sthaḥ | yat | pṛthivyām | yat | parvateṣu | oṣadhīṣu | ap-su | ataḥ | pari | vṛṣaṇau | ā | hi | yātam | atha | somasya | pibatam | sutasya