Sukta 1.106
नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
नरा॒शंसं॑ वा॒जिनं॑ वा॒जय॑न्नि॒ह क्ष॒यद्वी॑रं पू॒षणं॑ सु॒म्नैरी॑महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
narāśáṃsaṃ vā́jinaṃ vājáyann ihá kṣayádvīraṃ pū́ṣaṇaṃ sumnáir īmahe | ráthaṃ na durgā́d vasavaḥ sudānavo víśvasmān no áṃhaso níṣ pipartana ||
We seek here with gracious boons Nārāśaṃsa, the forceful one who increases plenitude, and Pūṣan who founds a dwelling rich in heroic energies. O Vasus, generous givers, as from a hard pass a chariot is drawn out, so deliver us from every constriction and inner wrong.
नरा॒शंस॑म् । वा॒जिन॑म् । वा॒जय॑न् । इ॒ह । क्ष॒यत्ऽवी॑रम् । पू॒षण॑म् । सु॒म्नैः । ई॒म॒हे॒ । रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥नराशंसम् । वाजिनम् । वाजयन् । इह । क्षयत्वीरम् । पूषणम् । सुम्नैः । ईमहे । रथम् । न । दुःगात् । वसवः । सुदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥narāśaṃsam | vājinam | vājayan | iha | kṣayat-vīram | pūṣaṇam | sumnaiḥ | īmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana