Sukta 1.106
बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
बृह॑स्पते॒ सद॒मिन्न॑: सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनુ॑र्हितं॒ तदी॑महे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
bṛ́haspate sádam ín naḥ sugáṃ kṛdhi śáṃ yór yat te mánur hitaṃ tád īmahe | ráthaṃ na durgā́d vasavaḥ sudānavo víśvasmān no áṃhaso níṣ pipartana ||
O Bṛhaspati, make for us always an easy and luminous going; the peace and right felicity that is set by Manu for thee—that we seek. O Vasus, generous givers, as one draws a chariot out of a hard pass, so draw us out from every constriction and inner wrong.
बृह॑स्पते । सद॑म् । इत् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । शम् । योः । यत् । ते॒ । मनुः॑ऽहितम् । तत् । ई॒म॒हे॒ । रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥बृहस्पते । सदम् । इत् । नः । सुगम् । कृधि । शम् । योः । यत् । ते । मनुःहितम् । तत् । ईमहे । रथम् । न । दुःगात् । वसवः । सुदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥bṛhaspate | sadam | it | naḥ | su-gam | kṛdhi | śam | yoḥ | yat | te | manuḥ-hitam | tat | īmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana