Sukta 1.106
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
अव॑न्तु नः पि॒तर॑: सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा॑ । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
avántu naḥ pitáraḥ supravācanā utá devī deváputre ṛtāvṛ́dhā | ráthaṃ na durgā́d vasavaḥ sudānavo víśvasmān no áṃhaso níṣ pipartana ||
May the Fathers, the well-uttered ones, foster us; and may the Goddess, the daughter of the Gods, increaser of the Truth, foster us. O Vasus, generous givers, as one draws a chariot out of a difficult pass, so draw us out from every constriction and inner wrong.
अव॑न्तु । नः॒ । पि॒तरः॑ । सु॒ऽप्र॒वा॒च॒नाः । उ॒त । दे॒वी इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । ऋत॒ऽवृधा॑ । रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥अवन्तु । नः । पितरः । सुप्रवाचनाः । उत । देवी इति । देवपुत्रे इति देवपुत्रे । ऋतवृधा । रथम् । न । दुःगात् । वसवः । सुदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥avantu | naḥ | pitaraḥ | su-pravācanāḥ | uta | devī iti | devaputreitideva-putre | ṛta-vṛdhā | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana