Sukta 1.106
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
त आ॑दित्या॒ आ ग॑ता स॒र्वता॑तये भू॒त दे॑वा वृत्र॒तूर्ये॑षु श॒म्भुव॑: । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
tá ādityā́ ā́ gatā sarva-tā́taye bhū́ta devā vṛtra-tū́ryeṣu śám-bhuvaḥ | ráthaṁ na durgā́d vasavaḥ su-dānavo víśvasmān no áṁhaso níṣ pipartana ||
O Ādityas, come for our total well-being; be powers of peace for us in the battles with the obstructors. O Vasus, generous givers, as a chariot from a hard pass, carry us out from every straitness and distress.
ते । आ॒दि॒त्याः॒ । आ । ग॒त॒ । स॒र्वऽता॑तये । भू॒त । दे॒वाः॒ । वृ॒त्र॒ऽतूर्ये॑षु । श॒म्ऽभुवः॑ । रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥ते । आदित्याः । आ । गत । सर्वतातये । भूत । देवाः । वृत्रतूर्येषु । शम्भुवः । रथम् । न । दुःगात् । वसवः । सुदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥te | ādityāḥ | ā | gata | sarva-tātaye | bhūta | devāḥ | vṛtra-tūryeṣu | śam-bhuvaḥ | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipatarna