Sukta 1.106
इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे । रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे । रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ॥
índraṁ mitráṁ váruṇam agním ūtáye mā́rutaṁ śárdho áditiṁ havāmahe | ráthaṁ na durgā́d vasavaḥ su-dānavo víśvasmān no áṁhaso níṣ pipartana ||
For help we call Indra, Mitra, Varuṇa, Agni, the Marut host, and Aditi. O Vasus, generous givers, as a chariot from a hard pass, carry us out from every straitness and inner distress.
इन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । ऊ॒तये॑ । मारु॑तम् । शर्धः॑ । अदि॑तिम् । ह॒वा॒म॒हे॒ । रथ॑म् । न । दुः॒ऽगात् । व॒स॒वः॒ । सु॒ऽदा॒नवः॒ । विश्व॑स्मात् । नः॒ । अंह॑सः । निः । पि॒प॒र्त॒न॒ ॥इन्द्रम् । मित्रम् । वरुणम् । अग्निम् । ऊतये । मारुतम् । शर्धः । अदितिम् । हवामहे । रथम् । न । दुःगात् । वसवः । सुदानवः । विश्वस्मात् । नः । अंहसः । निः । पिपर्तन ॥indram | mitram | varuṇam | agnim | ūtaye | mārutam | śardhaḥ | aditim | havāmahe | ratham | na | duḥ-gāt | vasavaḥ | su-dānavaḥ | viśvasmāt | naḥ | aṃhasaḥ | niḥ | pipartana