Amritnada
शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् ।
चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥५॥
शब्द-आदि-विषयाः । पञ्च । मनः । च । एव । अति-चञ्चलम् ।
चिन्तयेत् । आत्मनः । रश्मीन् । प्रत्याहारः । सः । उच्यते ॥५॥
śabdādiviṣayāḥ pañca manaś caivāticañcalam |
cintayed ātmano raśmīn pratyāhāraḥ sa ucyate ||5||
Die fünf Sinnesobjekte, beginnend mit dem Klang, und auch der Geist, wahrlich überaus unruhig—man soll die „Strahlen“ des Selbst (die nach außen gehenden Ströme) betrachten; das heißt pratyāhāra.
The five objects beginning with sound, and the mind indeed exceedingly restless—one should contemplate the rays (i.e., the outgoing currents) of the Self; that is called pratyāhāra.