शं नो॑ मि॒त्र: शं वरु॑ण॒: शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒ बृह॒स्पति॒: शं नो॒ विष्णु॑रुरुक्र॒मः
śáṃ no mitráḥ śáṃ váruṇaḥ śáṃ no bhavatv aryamā́ | śáṃ na índro bृहáspátiḥ śáṃ no víṣṇur urukramáḥ
Mitra sei uns zum Heil, Varuṇa sei zum Heil; Aryaman bringe uns Heil. Indra und Bṛhaspati seien uns zum Heil; Viṣṇu, der Weitschreitende, sei uns zum Heil.
शम् । नः । मित्रः । शम् । वरुणः । शम् । नः । भवतु । अर्यमा । शम् । नः । इन्द्रः । बृहस्पतिः । शम् । नः । विष्णुः । उरुक्रमः