विश्वे॑ देवाः शृणु॒तेमᳪ हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम्
víśve devā́ḥ śṛṇutémáṃ haváṃ me yé antárikṣe yá upa dyávi sthá | yé agnijihvā́ utá vā yajatrā́ āsádya asmín barhíṣi mādayadhvam ||
O alle Götter, hört diesen meinen Ruf — ihr, die im Luftraum seid, ihr, die im Himmel weilt; ihr, deren Zunge Agni ist, und ihr, o Opferwürdige. Setzt euch auf dieses Barhis (Opfergras) und freut euch.
विश्वे । देवाः । शृणुत । इमम् । हवम् । मे । ये । अन्तरिक्षे । ये । उप । द्यवि । स्थ । ये । अग्नि-जिह्वाः । उत । वा । यजत्राः । आसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ।