तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो॑ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे॑ । अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाज॑: कृ॒ष्णम॒न्यद्ध॒रित॒: सं भ॑रन्ति
tán mitrásya váruṇasyābhicákṣe sū́ryo rū́paṃ kṛṇute dyór upásthe | anántam anyád rúśad asya pā́jaḥ kṛ́ṣṇam anyád dharítaḥ sáṃ bharanti
Unter dem wachsamen Blick Mitras und Varuṇas gestaltet die Sonne ihre Gestalt im Schoß des Himmels. Ein Glanz von ihm ist grenzenlos und leuchtend; ein anderer ist dunkel: beides tragen die fahlgelben Rosse zusammen.
तत् । मि॒त्रस्य॑ । वरु॑णस्य । अ॒भि-चक्षे॑ । सूर्यः । रू॒पम् । कृ॒णु॒ते । द्योः । उ॒पस्थे॑ । अ॒न॒न्तम् । अ॒न्यत् । रुश॑त् । अ॒स्य॒ । पाजः । कृ॒ष्णम् । अ॒न्यत् । ह॒रित॑ः । सम् । भ॒र॒न्ति