पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभि॑: । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॑: पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म
pṛcchā́mi tvā parámántaṃ pṛthivyā́ḥ pṛcchā́mi yátra bhúvanasya nā́bhiḥ | pṛcchā́mi tvā vṛ́ṣṇo áśvasya rétaḥ pṛcchā́mi vā́caḥ parámáṃ vyòma ||
Ich frage dich nach dem äußersten Ende der Erde; ich frage, wo der Nabel der Welt ist. Ich frage dich nach dem Samen des kräftigen Rosses; ich frage nach der Rede: welches ist ihr höchster Himmel.
पृच्छामि । त्वा । परम्-अन्तम् । पृथिव्याः । पृच्छामि । यत्र । भुवनस्य । नाभिः । पृच्छामि । त्वा । वृष्णः । अश्वस्य । रेतः । पृच्छामि । वाचः । परम् । व्योम